________________
१५०
३३०
३३४
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
जगत्सर्गः. अनन्तशक्तिसंपन्नो मायोपाधिक ईश्वरः। ईक्षामात्रेण सृजति विश्वमेतच्चराचरम् ॥ अद्वितीयस्वमात्रोसौ निरुपादन ईश्वरः । स्वयमेव कथं सर्व सृजतीति नं शङ्कयताम् ॥ निमित्तमप्युपादानं स्वयमेवाभवत् प्रभुः । चराचरात्मकं विश्वं सृजत्यवति लुम्पति ॥ स्वप्राधान्येन जगतो निमित्तमपि कारणम् । उपादानं तथोपाधिपाधान्येन भवत्ययम् ॥ यथालूता निमित्तं च स्वप्रधान तथा भवेत् । स्वशरीरप्रधानत्वे नोपादानं तथेश्वरः ॥ तमःप्रधानप्रकृतिविशिष्टात् परमात्मनः ।
भूतानि. अभूत्सकाशादाकाशं आकाशाद्वायुरुच्यते ॥ वायोरग्निस्तथैवाग्नेः आपोऽन्यः पृथिवी क्रमात् । शक्तेस्तमःप्रधानत्वं तत्कायें जाड्यदर्शनात् ॥ आरम्भन्ते कार्यगुणान् ये कारणगुणा हि ते । एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥ एतेभ्यस्सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्याप । स्थूलान्यपि च भूतानि चान्योन्यांशविमेलनात् ॥
लिङ्गशरीरम्. अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम् । संसारकारणं लिङ्गं आत्मनो भोगसाधनम् ॥
३३८