________________
१४९
३२१
३२२
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
जीवः. साभासव्यष्टयुपहितसत्तादात्म्येन तद्गुणैः ॥ अभिभूतस्स एवात्मा जीव इत्यभिधीयते । किंचिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥ अस्य व्यष्टिरहंकारकारणत्वेन कारणम् । वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन सम्मतम् । व्यष्टेनिकृष्टत्वेनास्य नानेनाज्ञानभासकम् ॥ स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः । कारणं वपुरानन्दमयः कोश इतीर्यते ॥ अस्यावस्था सुषुप्तिस्स्यात् यत्रानन्दः प्रकृष्यते । एषोऽहं मुखमस्वाप्सं न तु किंचिदवेदिषम् ॥ इसानन्दसमुत्कृष्टः प्रबुद्धेषु प्रदृश्यते । समष्टेरपि च व्यष्टेः उभयोर्वनवृक्षवत् ॥ अभेद एव नो भेदः जात्येकत्वेन वस्तुतः। अभेद एव ज्ञातव्यः तथेशपाज्ञयोरपि ॥ सत्युपाध्योरभिन्नत्वे क भेदस्तद्विशिष्टयोः । एकीभावे तरङ्गाये को भेदः प्रतिविम्बयोः ॥ अज्ञानतदवच्छिन्नाभासयोरुभयोरपि । आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥ एतदेवाविविक्तं सत् उपाधिभ्यां च तद्गुणैः। महावाक्यार्थवाच्यार्थः विविक्तं लक्ष्य इष्यते ॥
३२४
३२५
३२६
३२७
३२८