________________
३१०
३११
सर्ववेदान्तसिद्धान्तसारसंग्रह
ईश्वरः. मायोपहितचैतन्यं साभासं सत्वहितम् । सर्वज्ञत्वादिगुणकं सृष्टिस्थित्यन्तकारणम् ॥ अव्याकृतं तदव्यक्तं ईश इत्यपि गीयते । सर्वशक्तिगुणोपेतः सर्वज्ञानावभासकः ॥ स्वतन्त्रस्सत्यसङ्कल्पः सत्यकामस्स ईश्वरः । तस्यैतस्य महाविष्णोः महाशक्तिर्महीयसः ॥ सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः । कारणं वपुरित्याहुः समष्टिं सत्त्वहितम् ॥ आनन्दप्रचुरत्वेन साधकत्वेन कोशवत् । सैषाऽऽनन्दमयः कोशः इतीशस्य निगद्यते ॥ सर्वोपरमहेतुत्वात् सुषुप्तिस्थानमिष्यते । प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते । अज्ञानवृत्तयो नाना तत्तणविलक्षणाः ॥ वनस्य व्यष्ट्यभिप्रायाद्रुहा इत्यनेकता। यथा तथैवाज्ञानस्य व्यष्टितस्स्यादनेकता ॥ समस्तमपि च व्यस्तं गुणैर्यद्वयाप्य तिष्ठति । ततस्समष्टिव्यष्टित्वव्यपदेशोऽस्य युज्यते ॥ व्यष्टिर्मलिनसत्वैषा रजसा तमसा यतः ।
प्रत्यगात्मा. ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥ चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते ।
३१६