________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
-
- १४७
२९८
२९९
अज्ञानम. तत्कारणं यदज्ञानं सकार्य सद्विलक्षणम् । अवस्त्वित्युच्यते सद्भिः यस्य बाधा प्रदृश्यते ॥ अवस्तु तत्प्रमाणैर्यत् बाध्यते शुक्तिरूप्यवत् । न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा । अवस्तुसंज्ञितं यत्तत् जगदध्यासकारणम् ॥ सदसद्यामनिर्वाच्यं अज्ञानं त्रिगुणात्मकम् । वस्तु तद्भावबोधैकवाध्यं तद्भावलक्षणम् ॥ मिथ्यासंबन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति । मणौ शक्तिर्यथा तद्वत् नैतदाश्रयदूषकम् ॥ सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम् । मानं श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोपि च ॥ अज्ञानं प्रकृतिश्शक्तिः अविद्येति निगद्यते । तदेतत्सन्न भवति नासद्वा शुक्तिरूप्यवत् ॥ सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा । न सावयवमन्यद्वा वीजस्याङ्करवत् कचित् ॥ अत एतदनिर्वाच्यं इत्येव कवयो विदुः । समष्टिव्यष्टिरूपेण द्विधाऽज्ञानं निगद्यते ॥ नानात्वेन प्रतीतानां अज्ञानानामभेदतः । एकत्वेन समष्टिस्स्यात् . भूरुहाणां वनं यथा ॥ इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा । मायेति कथ्यते सद्भिः शुद्धसत्त्वैकलक्षणा ॥
३०५
३०६
३०८