SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. तस्मात्त्वयदं भ्रमतः प्रतीतं मपैव नो ससमवेहि साक्षात् । ब्रह्म त्वमेवासि सुखस्वरूपं त्वत्तो न भिन्नं विचिनुष्य बुद्धौ ॥ २८८ लोकान्तरे वाsत्र गुहान्तरे वा तीर्थान्तरे कर्मपरम्परान्तरे । शास्त्रान्तरे नास्त्यनुपश्यतामिह स्वयं परं ब्रह्म विचार्यमाणे ॥२८९ तत्त्वमात्मस्थमज्ञात्वा मूढशास्त्रेषु मुह्यति । गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥ स्वमात्मानं परं मत्वा परमात्मानमन्यथा । विग्यते पुनस्स्वात्मा वहिः कोशेषु पण्डितैः ॥ विस्मृत्य वस्तुनस्तत्त्वं अध्यारोप्य च वस्तुनि । अवस्तुतां च तद्धर्मान् सुधा शोचति नान्यथा ॥ आत्मानात्मविवेकः. १४६ आत्मानात्मविवेकं ते वक्ष्यामि शृणु सादरः । यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥ इत्युक्त्वाऽभिमुखीकृत्य शिष्यं करुणया गुरुः । अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥ arrataयत्तत्त्वं शास्त्रदृष्टेन वर्त्मना । सर्वेषामुपकाराय तत्मकारोऽत्र दर्श्यते ॥ अध्यारोपः. वस्तुन्यस्त्वारोपो यः सोध्यारोप इतीर्यते । असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥ वस्तुतात्परं ब्रह्म सत्यज्ञानादिलक्षणम् । इदमारोपितं यत्र भाति खे नीलतादिवत् || . २९० २९१ २९२ २९३ २९ २९६ २९७
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy