________________
१४४
तद्वत्त्वयाऽप्यात्मन उक्तमेतत् जन्माप्ययव्याधिजरादिदुःखम् । मृषैव सर्व भ्रमकल्पितं ते सम्यग्विचार्यात्मनि मुञ्च भीतिम्॥ २६८ भवाननात्मनो धर्मान् आत्मन्यारोप्य शोचति । तदज्ञानकृतं सर्वं भयं सक्त्वा सुखी भव ॥
शिष्य :
सर्ववेदान्तासिद्धान्तसारसंग्रहः.
-
श्रीमद्भिरुक्तं सकलं मृषेति दृष्टान्त एव ह्युपपद्यते तत् । दाष्टन्तिकेनैव भवादिदुःखं प्रसक्षतस्सर्वजनप्रसिद्धम् ॥ प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति । चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो । प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ मर्सस्य मम जन्मादिदुःखभाजोल्पजीविनः । ब्रह्मत्वमपि नियत्वं परमानन्दता कथम् ॥ क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः । आत्मन्यनात्मधर्माणां आरोपः क्रियते कथम् ॥ किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् । किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ सर्वमेतद्यथापूर्व करामलकवत्स्फुटम् । प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ श्रीगुरु :
२६९
२७०
२७१
२७२
२७३
२७४
२७५
२७६
धन्यः कृतार्थस्त्वमहो विवेकः शिवप्रसादस्तव विद्यते महान् । विसृज्य तु प्राकृतलोकमार्ग ब्रह्मावगन्तुं यतसे यतस्त्वम्॥ २७७ शिवप्रसादेन विना न सिद्धि: शिवप्रसादेन विना न बुद्धिः । शिवप्रसादेन विना न युक्तिः शिवप्रसादेन विना न मुक्तिः ॥ २७८