________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. संप्रीतिमक्ष्णोर्वदनप्रसादं आनन्दमन्तःकरणस्य सद्यः । विलोकनं ब्रह्मविदस्तनोति छिनत्ति मोहं मुगर्ति व्यनक्ति ॥२६० हुताशनानां शशिनामिनानां अप्यर्बुदं वाऽपि न यनिहन्तुम् । शक्नोति तवान्तमनन्तमान्तरं हन्यात्मवेत्ता सकृदीक्षणेन ॥२६१ दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुःखोत्कटे
घोरे पुत्रकळत्रमित्रबहुळग्राहाकरे भीकरे । कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहुः
यातायातगतिभ्रमेण शरणं किंचिन्न पश्याम्यहम् ॥२६२ केन वा पुण्यशेषेण तव पादाम्बुजद्वयम् । दृष्टवानस्मि मामात मृसोनाहि दयादृशा ॥ २६३ वदन्तमेवं तं शिष्यं दृष्टचैव दयया गुरुः । दद्यादभयमेतस्मै मा भैप्टेति मुहुर्मुहुः ॥
२६४ विद्वन मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः कचित्
निसस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः । भ्रान्सा किंचिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते
मां त्राहीति हि सुप्तवत्मालपनं शून्यात्मकं ते मृषा ॥२६५ निद्रागाढतमोवृतः किल जनस्स्वप्ने भुजङ्गादिना
ग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोस्मीसलम् । आप्तेन प्रतिबोधितः करतलेनाताब्य पृष्टस्स्वयं
किंचिन्नेति वदसमुष्य वचनं स्यात्तत्किमर्थं वद ॥२६६ रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प
भावः पुमानयमहिर्वसतीति मोहात् । आक्रोशति प्रतिबिभेति च कम्पते तत् मिथ्यैव नात्र भुजगोस्ति विचार्यमाणे ॥
२६७