________________
१४२
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
उक्तसाधनसंपन्नो जिज्ञासुर्यतिरात्मनः । जिज्ञासायै गुरुं गच्छेत् समित्पाणिनयोज्ज्वलः ॥ २५० श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तस्समदर्शनः । निर्ममो निरहङ्कारो निन्द्रो निप्परिग्रहः ॥ अनपेक्षश्शुचिर्दक्षः करुणामृतसागरः । एवंलक्षणसंपन्नः स गुरुर्ब्रह्मवित्तमः ॥ उपासाद्यः प्रयत्नेन जिज्ञासोस्साध्यसिद्धये ॥ २५२ जन्मानेकशतैस्सदादरयुजा भक्सा समाराधितो
भक्तैर्वैदिकलक्षणेन विधिना संतुष्ट ईशः स्वयम् । साक्षाच्छ्रीगुरुरूपमेस कृपया दृग्गोचरस्सन् प्रभुः ____ तत्त्वं साधु विबोध्य तारयति तान् संसारदुःखार्णवात्॥२५३ अविद्याहृदयग्रन्थिवन्धमोक्षो भवेद्यतः । तमेव गुरुरिसाहुः गुरुशब्दार्थवेदिनः ॥ २५४ शिव एव गुरुस्साक्षात् गुरुरेव शिवस्स्वयम् । उभयोरन्तरं किंचित् न द्रष्टव्यं मुमुक्षुभिः ॥ बन्धमुक्तं ब्रह्मनिष्ठं कृतकृसं भजेद्गुरुम् । यस्य प्रसादात्संसारसागरो गोष्पदायते ॥ शुश्रूपया सदा भक्त्या प्रणामैर्विनयोक्तिभिः । प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥ भगवन् करुणासिन्धो भवसिन्धोर्भवान् तरिः । यमाश्रियाश्रमेणैव परं पारं गता बुधाः ॥ जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः । अद्य संनिहितो यस्मात् त्वत्कृपापात्रमस्म्यहम् ॥ २५९