SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४१ २४० २४१ २४२ सर्ववेदान्तसिद्धान्तसारसंग्रहः. संप्राप्य चैहिकसुखाभिरतो यदि स्यात् धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ खादते मोदते नियं शुनकस्सूकरः खरः ।। तेषामेषां विशेषः कः वृत्तिर्येषां तु तैस्समः ॥ यावन्नाश्रयते रोगो यावन्नाक्रमते जरा ।। यावन्न धीविपर्येति यावन्मृत्युं न पश्यति ॥ तावदेव नरस्स्वस्थः सारग्रहणतत्परः । विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥ देवषिपितृमीर्णबन्धमुक्तास्तु कोटिशः ।। भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥ अन्तर्वन्धेन बद्धस्य किंवहिर्वन्धमोचनैः । तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥ २४४ कृतिपर्यवसानैव मता तीव्रमुमुक्षुता । अन्या तु रञ्जनामात्रा यत्र नो दृश्यते कृतिः ॥ २४५ गेहादिसर्वमपहाय लघुत्वबुद्धया सौख्येच्छया स्वपति नानलमाविविक्षोः । कान्ताजनस्य नियता सुदृढा त्वरा या सैषा फलान्तगमने करणं मुमुक्षोः ॥ निसानियविवेकश्च देहक्षणिकतामतिः । मृत्योर्मोतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥ २४७ शिरो विवेकस्त्वसन्तं वैराग्यं वपुरुच्यते । शमादयप्पडङ्गानि मोक्षेच्छा प्राण इष्यते ॥ २४८ ईदृशाङ्गसमायुक्तो जिज्ञामुर्युक्तिकोविदः । शूरो मृत्यु निहन्येव सम्यक् ज्ञानासिना ध्रुवम् ॥ २४९
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy