________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
तापैस्त्रिभिर्नित्यमनेकरूपैः संतप्यमानः क्षुभितान्तरात्मा । परिग्रहं सर्वमनर्थबुद्धया जहाति सा तीव्रतरा मुमुक्षा ॥ २२८ तापत्रयं तत्रमवेक्ष्य वस्तु दृष्टा कळत्रं तनयान्विहातुम् । मध्ये द्वयोर्लोडनमात्मनो यत् सैषा मता माध्यमिकी मुमुक्षा ॥ २२९ मोक्ष कालोsस्ति किमद्य मे त्वरा भुक्त्वैव भोगान् कृतसर्वकार्यः । मुक् तिष्येऽहमति बुद्धिः एषैव मन्दा कथिता मुमुक्षा ॥ २३० मार्गे प्रयातुर्मणिलाभवन्मे लभेत मोक्षो यदि तर्हि धन्यः । इसाशया मूढधियां मतिर्या सैषाऽतिमन्दाऽभिमता मुमुक्षा ॥ २३१ जन्मानेकसहस्रेषु तपसाऽऽराधितेश्वरः । तेन निश्शेषनिर्धूतहृदयस्थितकल्मषः ॥ शास्त्रगुणदोषज्ञो भोग्यमात्रे विनिस्पृहः । निसानियपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥ निष्टप्तमग्निना पात्रं उद्वास्य त्वरया यथा । जहाति गेहं तद्वच तीव्रमोक्षेच्छया द्विजः ॥ स एव सद्यस्तरात संसृतिं गुर्वनुग्रहात् । यस्तु तीव्र मुमुक्षुस्स्यात् स जीवन्नेव मुच्यते ॥ जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे | चतुर्थः कल्पकोटयां वा नैव वन्धाद्विमुच्यते ॥ नृजन्म जन्तोरतिदुर्लभं विदुः ततोऽपि पुंस्त्वं च ततो विवेकः । लब्ध्वा तदेतत्रितयं महात्मा यतेत मुक्त्यै सहसा विरक्तः ॥ २३७ पुत्रमित्रकळत्रादिसुखं जन्मनि जन्मनि । मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥
२३६
१४०
लब्ध्वा सुदुर्लभतरं नरजन्म जन्तुः तत्रापि पौरुषमतस्सदसद्विवेकम् ।
२३२
२३३
२३४
२३५
२३८