________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
चित्तसमाधानम्. श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि । चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१७ चित्तस्य साध्यैकपरत्वमेव घुमर्थसिद्धेनियमेन कारणम् । नैवान्यथा सिद्धयति साध्यमीपत् मनःप्रमादे विफलः प्रयत्नः ॥ चित्तं च दृष्टिं करणं तथाऽन्यत् एकत्र बध्नाति हि लक्ष्यभेत्ता । किंचित्पमादे सति लक्ष्यभेतुः वाणमयोगो विफलो यथा तथा । सिद्धश्चित्तसमाधानं असाधारणकारणम् । यतस्ततो मुमुक्षूणां भवितव्यं सदाऽमुना ॥ २२० असन्ततीववैराग्यं फललिप्सा महतरा । तदेतदुभयं विद्यात् समाधानस्य कारणम् ॥ २२१ बहिरङ्गं श्रुतिः माह ब्रह्मचर्यादिमुक्तये । शमादिषदमेवैतत् अन्तरङ्गं विदुर्बुधाः ॥
२२२ अन्तरङ्गं हि बलवत् बहिरङ्गाद्यतस्ततः । शमादिपर्टी जिज्ञासोः अवश्यं भाव्यमान्तरम् ॥ २२३ अन्तरङ्गविहीनस्य कृतश्रवणकोटयः । न फलन्ति यथा योङः अधीरस्यास्त्रसम्पदः ॥ २२४
मुमुक्षुत्वम्. ब्रह्मात्मैकत्वविज्ञानात् यद्विद्वान्मोक्तुमिच्छति । संसारपाशबन्धं तत् मुमुक्षुत्वं निगद्यते ॥ २२५ साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् । अनिच्छोरप्रवृत्तस्य क श्रुतिः क नु तत्फलम् ॥ २२६ तीव्रमध्यममन्दातिमन्दभेदाच्चतुर्विधा । मुमुक्षा तत्पकारोऽपि कीर्सते श्रूयतां बुधैः ॥ २२७