SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ૧૨૮ 'सर्ववेदान्तसिद्धान्तसारसंग्रहः. पुंसः प्रधानसिद्धयर्थं अङ्गस्याश्रयणं ध्रुवम् । कर्तव्यमङ्गहीनं चेत् प्रधानं नैव सिध्यति ॥ संन्यसेत् सुविरक्तस्सन् इहामुत्रार्थतत्सुखात् । अविरक्तस्य संन्यासो निष्फलोऽयाज्ययागवत् ॥ संन्यस्य तु यतिः कुर्यात् न पूर्वविषयस्मृतिम् । तांतां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०६ २०७ २०८ श्रद्धा. २०९ गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका । समयेव सा श्रद्धा निदानं मुक्तिसिद्धये ॥ श्रद्धावतामेव सतां पुमर्थः समीरितस्सिद्ध्यति नेतरेषाम् । उक्तं सुसूक्ष्मं परमार्थतत्वं श्रद्धत्स्व सौम्येति च वक्ति वेदः ॥ २१० श्रद्धाविहीनस्य तु न प्रवृत्तिः प्रवृत्तिशून्यस्य न साध्यसिद्धिः । अश्रद्धयैवाभिहताश्च सर्वे मज्जन्ति संसारमहासमुद्रे || २११ दैवे च वेदे च गुरौ च मन्त्रे तीर्थे महात्मन्यपि भेषजे च । श्रद्धा भवत्यस्य यथा यथाऽन्तः तथा तथा सिद्धिरुदेति पुंसाम् ॥ अस्तीयेवोपलब्धव्यं वस्तुसद्भावनिश्चयात् । सद्भावनिश्चयस्तस्य श्रद्धया शास्त्रसिद्धया || तस्माच्छ्रद्धा सुसंपाचा गुरुवेदान्तवाक्ययोः । मुमुक्षोः श्रद्दधानस्य फलं सिद्ध्यति नान्यथा ॥ यथार्थवादिता पुंसां श्रद्धाजननकारणम् । वेदस्येश्वरवाक्यत्वात् यथार्थत्वे न संशयः ॥ २१३ २१४ २१५ मुक्तस्येश्वररूपत्वात् गुरोर्वागपि तादृशी । तस्मात्तद्वाक्ययोश्रद्धा सतां सिद्धयति धीमताम् ॥ २१६
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy