________________
. १३७
सर्ववेदान्तसिद्धान्तसारसंग्रहः. विद्यां चाविद्यां चेति सहोक्तिरियमुपक्रमतां ? सद्भिः । सत्कर्मोपासनयोः न त्वात्मज्ञानकर्षणोः कापि ॥ १९६ नित्यानित्यपदार्थवोधरहितो यश्चोभयत्र स्रगा
द्यर्थानामनुभूतिलग्नहृदयो निर्षिण्णबुद्धिर्जनः । तस्यैवास्य जडस्य कर्म विहितं श्रुत्या विरज्याभितो ___मोक्षेच्छोर्न विधीयते तु परमानन्दाथिनो धीमतः ॥१९७ मोक्षेच्छया यदहरेव विरज्यतेऽसौ ।
न्यासस्तदैव विहितो विदुषो मुमुक्षोः । श्रुत्या तयैव परया च ततस्सुधीभिः
प्रामाणिकोऽयमिति चेतसि निश्चितव्यम् ॥ १९८ स्वापरोक्ष्यस्य वेदादेः साधनत्वं निषेधति । नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥ प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे । प्रवृत्त्या वध्यते जन्तुः निवृत्त्या तु विमुच्यते ॥ २०० यन्न स्वबन्धोऽभिमतो मूढत्यापि कचित्ततः। निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्षकांक्षिभिः ॥ २०१ न ज्ञानकर्मणोर्यस्मात् सहयोगस्तु युज्यते । तस्मात्त्याज्यं प्रयत्नेन कर्म ज्ञानेच्छुना ध्रुवम् ॥ इष्टसाधनताबुद्धया गृहीतस्यापि वस्तुनः । विज्ञाय फलतां पश्चात् कः पुनस्तत्प्रतीक्षते ॥ उपरतिशब्दो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः । सोऽयं मुख्यो गौणः चेति च वृत्त्या द्विरूपतां धत्ते ॥२०४ वृत्तेदृश्यपरित्यागो मुख्यार्थ इति कथ्यते । गौणार्थः कर्मसंन्यासः श्रुतेरङ्गतया मतः ॥
२०२
२०३
२०५
iv-18