________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. कथमन्यान्यसापेक्षा कथं वाऽपि समुच्चयः । यथाऽनेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ सहयोगो न घटते तथैव ज्ञानकर्मणोः । किमूपकुर्याज्ज्ञानस्य कर्म स्वप्रतियोगिनः ॥ यस्य सन्निधिमावेण स्वयं न स्फूर्तिमिच्छति ॥ १८६ कोटीन्धनाद्रिज्वलितोपि वह्निः अर्कस्य नाहत्युपकर्तुमीषत्। यथा तथा कर्मसहस्रकोटिः ज्ञानस्य किं नु स्वयमेव लीयते॥१८७ एकक श्रयौ हस्तौ कर्मण्यधिकृतावुभौ । सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ क; कर्तुमकर्तुं वाऽप्यन्यथा कर्म शक्यते । न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥ १८९ यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते ।। नापेक्षते च यत्किंचित् कर्म वा युक्तिकौशलम् ॥ - १९० ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् । . अतो न वास्तवं ज्ञानं इति नो शङ्कयतां बुधैः ॥ १९१ प्रमाणासौष्ठववृतं संशयादि न वास्तवम् । वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु ॥ १९२ श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥ रूपज्ञानं यथा सम्यक् दृष्टौ सत्यां भवेत्तथा । श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥ न कर्म यत्किंचिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः । ज्ञानं तथैव श्रवणादिजन्यं वस्तुप्रकाशे निरपेक्षमेव ॥ १९४ कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् । प्रमाणतन्त्र विज्ञानं मायातन्त्रमिदं जगत् ॥