________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना । मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ हस्तवद्रध [य]मेतस्य स्वकार्यं साधयिष्यति । यथा विजृम्भते दीपः ऋजूकरणकर्मणा ॥ तथा विजृम्भते बोधः पुंसो विहितकर्मणा । अतस्सापेक्षितं ज्ञानं अथवाऽपि समुच्चयम् ॥ मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः । मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥ इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः । कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ वैलक्षण्यं च सामग्रयोः चोभयत्राधिकारिणः । कामी कर्मण्यधिकृतः निष्कामी श्रवणे मतः ॥ अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् । परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः || मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि । कर्मणस्साधनं भार्यास्रुक्खुवादिपरिग्रहः ॥
नैवास्य साधनापेक्षा शुश्रूषोस्तु गुरुं विना । उपर्युपर्यहङ्कारो वर्धते कर्मणा भृशम् ॥ अहङ्कारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् । प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥ इत्यादिवैपरीत्यं तत् साधने चाधिकारिणोः । द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ सामग्रयोश्रो भयोस्तद्वत् उभयत्राधिकारिणोः । ऊर्ध्वं नयति विज्ञानं अधः प्रापयति क्रिया ॥
१३५
१७३
१७४
१७५
१७६
१७७
१.७८
१७९
१८०
१८१
१८२
१८३
१८४