________________
१३४
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । इसेव वस्तुनस्तत्त्वं श्रुतियुक्तिव्यवस्थितम् ॥ तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन । कर्मसाध्यं त्वनित्यं हि ब्रह्म निसं सनातनम् ॥ देहादिः क्षीयते लोको यथैवं कर्मणा चितः । तथैवामुष्मिको लोको सञ्चितः पुण्यकर्मणा ॥ कृतकत्वमनित्यत्वे हेतुर्जागत सर्वदा । तस्मादनिये स्वर्गादौ पण्डितः को न मुह्यति ॥ जगद्धेतोस्तु नित्यत्वं सर्वेषामपि सम्मतम् । जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः || ऐतदात्म्यमिदं सर्वं तत्सयमिति च श्रुतिः । अस्यैव नित्यतां ब्रूते जगद्धेतोस्सतः स्फुटम् ॥ न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः । कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥ प्रसग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना
कैवल्यं पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् । न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणैः
नो वाऽप्यध्वरयज्ञदाननिगमैन मन्त्रन्त्रैरपि ॥ १६९ ज्ञानादेव तु कैवल्यं इति श्रुत्या निगद्यते । ज्ञानस्य मुक्तिहेतुत्वं अन्यव्यावृत्तिपूर्वकम् ॥ विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः । तद्भावेच्छोरनित्यार्थे तत्सामग्रये कुतोऽरतिः ॥ तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् । नित्यं नैमित्तिकं चापि सर्व कर्म ससाधनम् ॥
१६२
१६३
१६४
१६५
१६६
१६७
१६८
१७०
१.७१
१७२