________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. १३३
संन्यासः, साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् । विधिना यः परिसागः स संन्यासस्सतां मतिः ॥ १५१ उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः ।। न्यासेन हि सर्वेषां श्रुसा प्राप्तो विकर्मणां सागः ॥ १५२ कर्मणा साध्यमानस्यानिसत्वं श्रूयते यतः । कर्मणाऽनेन किं नियफलेप्सोः परमार्थिनः॥ उत्पाद्यमाप्यं संस्कार्य विकार्य परिगण्यते ।। चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥ नैतदन्यतरं ब्रह्म कदा भवितुमर्हति । स्वतस्सिद्धं सर्वदाऽऽतं शुद्धं निर्मलमक्रियम् ॥ १५५ न चास्य कश्चिजनितेसागमेन निषिध्यते । कारणं ब्रह्म तत्तस्मात् ब्रह्म नोत्पाद्यमिष्यते ॥ आप्नाप्ययोस्तु भेदश्चेत् आप्ता चाप्यमवाप्यते । आप्तस्वरूपमेवैतत् ब्रह्म नाप्यं कदाचन ॥ १५७ मलिनस्यैव संस्कारो दर्पणादेरिहेष्यते । व्योमवन्निसशुद्धस्य ब्रह्मणो नैव संस्क्रिया ॥ केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम् । यद्योगादागतं हो संस्कारो विनिवर्तयेत् ॥ १५९ निर्गुणस्य गुणाधानं अपि नैवोपपद्ये । केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥ सावयवस्य क्षीरादेः वस्तुनः परिणामिनः । येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥ १६१
१५८
१६०