________________
१३२
सर्ववेदान्तसिद्धान्तसारसंग्रहः. तितिक्षया तपो दानं यज्ञं तीर्थं व्रतं श्रुतम् । भूतिस्स्वर्गोऽपवर्गश्च प्राप्यते तत्तवर्षिभिः ॥ १४० ब्रह्मचर्यमहिंसा च साधनामपि चाहणम् । पराक्षेपादिसहनं तितिक्षोरेव सिद्धयति ॥ साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् । यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥ .. १४२ तितिक्षोरेव विघ्नेभ्यः त्वनिवर्तितचेतसः । सिध्यन्ति सिद्धयस्सर्वा अणिमाद्याः समृद्धयः ॥ १४३ तस्मान्मुमुक्षोरधिका तितिक्षा संपादनीयेप्सितकार्यसिद्धयै । तीवा मुमुक्षा च महत्युपेक्षा चोभे तितिक्षा सहकारि कारणम् ॥ तत्तत्कालसमागतामयततेश्शान्यै प्रवृत्तो यदि .
स्यात्तत्तत्परिहारकौषधरतस्तचिन्तने तत्परः । तद्भिक्षुश्श्रवणादिधर्मरहितो भूत्वा मृतश्चत्ततः
किं सिद्धं फलमाप्नयादुभयथा भ्रष्टो भवेत्स्वार्थतः॥ १४५ योगमभ्यस्यतो भिक्षोः योगाचलितमानसः । प्राप्य पुण्यकृतान् लोकान् इसादि प्राह केशवः ॥ १४६ न तु कृत्वैव सन्यासं तूष्णीमेव मृतस्य हि । पुण्यलोकगतिं व्रते भगवान्नयासमात्रतः ॥ न च सन्यसनादेव सिद्धिं समधिगच्छति । इसनुष्ठेयसंसागात् सिद्धयभावमुवाच च ॥ तस्मात्तितिक्षया सोढ़ा तत्तदुःखमुपागतम् । कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैश्शनैः ॥ प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः । प्राप्तदुःखासहिष्णुत्वे न किंचिदपि दृश्यते ॥