________________
१३१
सर्ववेदान्तसिद्धान्तसारसंग्रहः. इन्द्रियेषु निरुद्धेषु सक्त्वा वेगं मनस्स्वयम् । सयभावमुपादत्ते प्रसादस्तेन जायते ॥ प्रसन्ने सति चित्तेऽस्य मुक्तिस्मिध्यति नान्यथा । मनःप्रसादस्य निदानमेव निरोधनं यत्सकलेन्द्रियाणाम् । बाह्येन्द्रिये साधु निरुध्यमाने वाह्यार्थभागो मनसो वियुज्यते॥१.३२ तेन स्वदौष्टयं परिमुच्य चित्तं शनैश्शनैश्शान्तिमुपाददाति । चित्तस्य वाह्यार्थविमोक्षमेव मोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥ १३३ दमं विना साधु मनःप्रसादहेतुं न विद्मस्सुकरं मुमुक्षोः। दमेन चित्तं निजदोपजातं विसृज्य शान्ति समुपैति शीघ्रम्॥१३४ प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो
यस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य । सम्यग्दृष्टया कचिदपि तया नो दमो हन्यते तत् ___कुर्याद्धीमान् दममनलसश्चित्तशान्यै प्रयत्नात् ॥ १३५ सर्वेन्द्रियाणां गतिनिग्रहेण भोग्येषु दोषाधवमर्शनेन । ईशप्रसादाच्च गुरोः प्रसादात् शान्ति समायासचिरेण चित्तम् ॥
तितिक्षा. आध्यात्मिकादि यहःखं प्राप्तं प्रारब्धवेगतः । अचिन्तया तत्सहनं तितिक्षेति प्रचक्षते ॥ शीक्षा तितिक्षा सदृशी मुजुक्षोः न विद्यतेऽसौ पविना न भिद्यते। यायेर धीराः कवचीय विघ्नान सास्तृणीकृत जयन्ति मायाम्। क्षमावतामेव हि योगसिद्धिः स्वाराज्यलक्ष्मीसुखभोगसिद्धिः । क्षमाविहीना निपतन्ति विनैः वातैर्हताः पर्णचया इव मात् ॥