SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. १२९ दम्भः . ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः । पारमार्थिकधीहीनः स दम्भाचार उच्यते ॥ पुंसस्तथाऽनाचरणं अदम्भित्वं विदुर्बुधाः । सत्यम्. यत्स्वन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११८ ससमित्युच्यते ब्रह्म ससमिसभिभाषणम् । निर्ममता. देहादिषु स्वकीयत्वदृढवुद्धिविसर्जनम् ॥ निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः । स्थैर्यम्. गुरुवेदान्तवचनैः निश्चितार्थे दृढस्थितिः ॥ तदेकवृत्त्या तत्स्थैर्य नैश्चल्यं न तु वर्मणः । अभिमानविसर्जनम्, विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥ १२१ संजाताहंकृतेस्त्यागः त्वभिमानविसर्जनम् । . ईश्वरध्यानम्. त्रिभिश्च करणैः सम्यक् हित्वा वैषयिकी क्रियाम् ॥१२२ स्वात्मैकचिन्तनं यत्तत् ईश्वरध्यानमीरितम् । . ब्रह्मवित्सहवासः. छायेव सर्वदा वासः ब्रह्मविद्भिः सह स्थितिः ॥ १२३ iv-17
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy