SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२८ सर्ववेदान्खासद्धान्तसारसंग्रहः. यस्यैतद्विद्यते सर्व तस्य चित्तं प्रसीदति । न त्वेतद्धर्मशून्यस्य प्रकारान्तरकोटिभिः ॥ ब्रह्मचर्यम्. स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् । समीचीनत्वधीस्तासु प्रीतिः संभाषणं मिथः ॥ . ११० सहवासश्च संसर्गः अष्टधा मैथुनं विदुः । एतद्विलक्षणं ब्रह्मचर्य चित्तप्रसादकम् ॥ अहिंसा, . अहिंसा वामनःकायैः प्राणिमात्राप्रपीडनम् । स्वात्मवत् सर्वभूतेषु कायेन मनसा गिरा ॥ ११२ दया, अवक्रता. अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः ।। करणत्रितयेष्वेकरूपताऽवक्रता मता ॥ • ११३ वैतृष्ण्य म्. ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ शौचम्. बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते । मृजलाभ्यां कृतं शौचं बाह्य शारीरकं स्मृतम् ॥ ११९ अज्ञानदूरीकरणं मानसं शौचमान्तरम् । अन्तश्शीचे स्थिते सम्यक् वाह्यं नावश्यकं नृणाम् ॥११६
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy