________________
सर्ववेदान्तसिद्धान्तसतरंसग्रहः.
स्वविकारं परियज्य वस्तुमात्रतया स्थितिः । । मनसः सोत्तमा शान्तिः ब्रह्मनिर्वाणलक्षणा ॥ ... ९८ प्रसक्प्रययसन्तानप्रवाहकरणं धियः । यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ॥ विषयव्यापृति सक्त्वा श्रवणैकमनस्थितिः।। मनसश्चेतरा शान्तिः मिश्रसत्त्वैकलक्षणा ॥ .. १०० पाच्योदीच्याङ्गसद्भावे शमा सिद्धयति नान्यथा । तीवा विरक्तिः प्राच्याङ्गं उदीच्याङ्गं दमादयः॥ १०१ कामः क्रोधश्च लोभश्च मदो मोहश्च मत्सरः । न जिताः षडिमे येन तस्य शान्तिन सिध्यति ॥ १०२ शब्दादिविषयेभ्यो यः विषवत् न निवर्तते । तीव्रमोक्षेच्छया भिक्षुः तस्य शान्तिन सिद्धयति ॥ १०३ येन नाराधितो देवो यस्य नो गुर्वनुग्रहः । न वश्यं हृदयं यस्य तस्य शान्तिर्न सिद्धयति ॥ १०४
मनःप्रसादसाधनम्. मनःप्रसादसिद्धयर्थं साधनं श्रूयतां बुधैः । मनःप्रसादो यत्सत्त्वे यदभावे न सिध्यति ॥ १०५ ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता । विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥ ससं निर्ममता स्थैर्य अभिमानविसर्जनम् । ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥ १०७ ज्ञानशास्त्रैकपरता समता मुखदुःखयोः । मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥ १०८
१०६