________________
१२४
सर्ववेदान्तसिद्धान्तसारसंग्रहा. राज्ञो भयं चोरभयं प्रमादात् भयं तथा ज्ञातिभयं च वस्तुतः । धनं भयग्रस्तमनर्थमूलं यतः सतां तन्न सुखाय कल्पते ॥७२ आर्जने रक्षणे दाने व्यये वाऽपि च वस्तुतः । दुःखमेव सदा नृणां न धनं सुखसाधनम् ॥ ७३ सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते । विवेको लुप्यते लोभात् तस्मिन् लुप्ते विनश्यति ॥ ७४ दहसलामे निस्स्वत्त्वं लाभे लोभो दहत्यमुम् । तस्मात् सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥ ७५ भोगेन मत्तता जन्तोः दानेन पुनरुद्भवः । वृधैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥ ७६ धनेन मदवृद्धिः स्यात् मदेन स्मृतिनाशनम् । । स्मृतिनाशाद्भद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ ७७ मुखयति धनभवेत्यन्तराशापिशाच्या
दृढतरमुपगूढो मूढलोको जडात्मा । निवसति तदुपान्ते सन्ततं प्रेक्षमाणो
व्रजति तदपि पश्चात् प्राणमेतस्य हृत्वा ॥ ७८. संपन्नोऽन्धवदेव किंचिदपरं नो वीक्षते चक्षुषा
सद्भिजितमार्ग एव चरति प्रोत्सारितो वालिशैः । तस्मिन्नेव मुहुः स्खलन् प्रतिपदं गत्वाऽन्धकूपे पत
सस्यान्धत्वनिवर्तकौषधमिदं दारिद्रयमेवाअनम् ॥ ७९ लोभः क्रोधश्च डम्भश्च मदो मत्सर एव च । वर्धते वित्तसंप्राप्तया कथं तचित्तशोधनम् ॥ ८० अलाभाट्विगुणं दुःखं वित्तस्य व्ययसंभवे । ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥