SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः • कामविजयोपायः. कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम् । संकल्पस्य पंरियागः उपायः सुलभो मतः ॥ ६४ श्रुते दृष्टेऽपि वा भोग्ये यस्मिन् कस्मिंश्च वस्तुनि । समीचीनत्वधीयागात् कामो नोदेति कर्हि चित् ॥ कामस्य बीजं संकल्पः संकल्पादेव जायते । बीजे नष्टेऽङ्कुर इव तस्मिन् नष्टे विनश्यति ॥ ६५ aasti सम्यक्त्वाि विनैव भोग्यं नरः कामयितुं समर्थः । यतस्ततः कामजयेच्छुरतां सम्यक्त्वबुद्धिं विषये निहन्यात् ॥ ६६ भोग्ये नरः कामजयेच्छुरेतां मुखत्वबुद्धिं विषये निहन्यात् । यावत् सुखत्वभ्रमधीः पदार्थे तावन्न जेतुं प्रभवेद्धि कामम् ॥ ६७ संकल्पानुदये हेतुः यथाभूतार्थदर्शनम् । अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥ रने यदि शिलाबुद्धिः जायते वा भयं ततः । समीचीनत्वधीने॑ति नोपादेयत्वधीरपि ॥ यथार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् । सङ्कल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥ १२३ धनदोषः . धनं भयनिबन्धनं सततदुःखसंवर्धनं प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनम् । विशिष्टगुणबाधनं कृपणधी समाराधनं ६८ ६९ ७० न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥ ७१
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy