SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः ५४ दूरादवेक्ष्याग्निशिखां पतङ्गो रम्यत्वबुद्ध्या विनिपत्य नश्यति । यथा तथा नष्टशेष सूक्ष्मं कथं निरीक्षेत विमुक्तिमार्गम् ॥ ५२ कामेन कान्तां परिगृह्य तद्वत् जनोऽप्ययं नश्यति नष्टदृष्टिः । मांसास्थिमज्जामलमूत्रपात्रं स्त्रियं स्वयं रम्यतथैव पश्यति ॥ ५३ काम एव यमः साक्षात् कान्ता वैतरणी नदी । विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥ यमालये वाऽपि गृहेऽपि नो नृणां तापत्रय क्लेशनिवृत्तिरस्ति । किञ्चित् समालोक्य तु तद्विरामं सुखात्मना पश्यति मूढलोकः।। ५५ यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके । हितं करोत्यस्य यमोऽभियः सन् कामस्त्वनर्थं कुरुते मियः सन् ॥ ५६ मोsसतामेव करोत्यनर्थं सतां त सौख्यं करुते हितः सन् । तु कामः सतामेव गतिं निरुन्धन् करोत्यनर्थ ह्यसतां नु का कथा ॥ विश्वस्य वृद्धिं स्वयमेव कांक्षन् प्रवर्तकं कामिजनं ससर्ज । तेनैव लोकः परिमुह्यमानः प्रवर्धते चन्द्रमसेव चान्धिः ॥ ५८ कामो नाम महान् जगमयिता स्थित्वाऽन्तरङ्गे स्वयं स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् । अन्योन्यं परिमो नैजतमसा प्रेमानुबन्धेन तौ बड़ा भ्रामयति प्रपञ्चरचनां संवर्धयन् ब्रह्महा ॥ ५९ अतोऽन्तरङ्गस्थितकामवेगात् भोग्ये मवृत्तिः स्वत एव सिद्धा । सर्वस्य जन्तोर्ध्रुवमन्यथा चेत् अबोधितार्थेषु कथं प्रवृत्तिः ॥ ६० तेनैव सर्वजन्तूनां कामना बलवत्तरा । जीर्यत्यपि च देहेऽस्मिन् कामना नैव जीर्यते ॥ १ २२ अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः । कामपाशेन यो मुक्तः स मुक्तेः पथगोचरः ॥ ६१ ६२
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy