________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः । संबन्धः कथ्यते सद्भिः बोध्यबोधकलक्षणः ॥ ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् । येन निश्शेषसंसारबन्धात् सद्यः प्रमुच्यते ॥ प्रयोजनं संप्रवृत्तेः कारणं फललक्षणम् । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥
११८
साधनचतुष्टयम्.
साधनचतुस्संपत्तिः । यस्यास्ति धीमतः पुंसः । तस्यैवैतत्फलसिद्धिः नान्यस्य किञ्चिदूनस्य ॥ चत्वारि साधनान्यत्र वदन्ति परमर्षयः । मुक्तिर्येषां तु सद्भावे नाभावे सिद्धयति ध्रुवम् ॥ आद्यं नियानित्यवस्तुविवेकः साधनं मतम् | इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ शमादिषट्टसंपत्तिः तृतीयं साधनं मतम् । तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसम्मतम् ॥ नित्यानित्यविवेकः.
ब्रह्मैव नियमन्यत्तु नियमिति वेदनम् । सोऽयं नियानित्यवस्तुविवेक इति कथ्यते ॥ मृदादिकारणं नियं त्रिषु कालेषु दर्शनात् । घटाद्यनिसं तत्कार्यं यतस्तन्नाशमीक्षते || तथैवैतज्जगत् सर्वं अनियं ब्रह्मकार्यतः । तत्कारणं परं ब्रह्म भवेन्निसं मृदादिवत् ॥
'मातृकाकोशे तु ' चतुष्टयसंपत्ति: ' इति पाठ:.
१०
११
१२
१३
१४
१५
१६
१७
१८
१९