________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
अखण्डानन्दसंबोधो वन्दनाद्यस्य जायते ।
गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ अखण्डं सच्चिदानन्दं अवाङ्मनसगोचरम् । आत्मानमखिलाधारं आश्रयेऽभीष्टसिद्धये ॥ यदालम्बो दरं हन्ति सतां प्रत्यूहसंभवम् । तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥ अर्थतisयानन्दं अतीतद्वैतलक्षणम् । आत्माराममहं वन्दे श्रीगुरुं शिवविग्रहम् ॥ वेदान्तशास्त्रसिद्धान्तसारसङ्गह उच्यते । प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥
अनुबन्धचतुष्टयम्.
अस्य शास्त्रानुसारित्वात् अनुबन्धचतुष्टयम् । यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ अधिकारी च विषयः संवन्धश्च प्रयोजनम् । शास्त्रारम्भफलं प्राहुः अनुबन्धचतुष्टयम् ॥ चतुर्भिः साधनैः सम्यक् संपन्नो युक्तिदक्षिणः । मेधावी पुरुषो विद्वान् अधिकार्यत्र सम्मतः ॥ विषयः शुद्धचैतन्यं जीवत्रह्मैक्यलक्षणम् । यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥
३