________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
संग वक्यस्य तस्माद्वा एतस्मा " दियपि श्रुतिः । सकाशाद्ब्रह्मणस्तस्मात् अनिसत्वे न संशयः ॥ सर्वस्यानित्यत्वे सावयवत्वेन सर्वतसिद्धे । वैकुण्ठादिषु नियत्वमतिभ्रम एव मूढबुद्धीनाम् ॥ अनित्यत्वं च नित्यत्वं एवं यः श्रुतियुक्तिभिः । विवेचनं निसानिस विवेक इति कथ्यते ॥
विरक्तिः.
"
११९
२०
२१
२२
२४
ऐहिकामुष्मिकार्थेषु नित्यत्वेन निश्चयात् । नैस्स्पृशं तुच्छबुद्धिर्यत् तद्वैराग्यमितते ॥ निसानियपदार्थविवेकात् परुषस्य जायते सद्यः । वक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥ काकस्य विष्ठावदसह्यबुद्धिः भोग्येषु सा तीव्रविरक्तिरिष्यते । विरक्तितीत्रत्वनिदानमाहुः भोग्येषु दोषेक्षणमेव सन्तः ॥ २५ प्रदृश्यते वस्तुनि यत्र दोषः न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः अन्तर्महारोगवतीं विजानन् को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २६ अत्रापि चान्यत्र च विद्यमानपदार्थ संमर्शनमेव कार्यम् । यथाप्रकारार्थगुणाभिमर्शनं सन्दर्शयसेव तदीयदोषम् ॥ २७ कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थिति तदा विद्धिमिदंशनं च । तदीयकौक्षेयवह्निदाहं विचार्य को वा विरतिं न याति ॥ २८ स्वकीयविण्मूत्रनिमज्जनं तत् चोत्तानगला शयनं तदा यत् । बालग्रहाद्याहतिभाक्च शैशवं विचार्य को वा विरतिं न याति ॥ २९ स्वीयैः परैस्ताडनमज्ञभावं अत्यन्तचापल्यमसत्क्रियां च । कुमारभावे प्रतिषिद्धवृत्ति विचार्य को वा विरतिं न याति ॥ ३० /
२३