________________
स्वात्मनिरूपणम्.
मान्योऽहमस्मि महतां मन्दमतीनाममाननीयोऽहम् । मदरागमानमोहितमानस दुर्वासनादुरापोऽहम् ॥ १३९ ॥ यजनयजमानयाजकयागमयोऽहं यमादिरहितोऽहम् । यमवरुणयक्ष [ वासव ] राक्षस मरुदीशवह्निरूपोऽहम् ॥ १३६ ॥ रक्षाविधानशीक्षावीक्षितलीला लोकमहिमाऽहम् । रजनीदिवसविरामस्फुरदनुभूतिप्रमाणसिद्धोऽहम् ॥ १३७ ॥ लक्षणलक्ष्यमयोsहं लाक्षणिकोऽहं लयादिरहितोऽहम् । लाभालाभमयोsहं लब्धव्यानामलभ्यमानोऽहम् ॥ १३८ ॥ वर्णाश्रमरहितोऽहं वर्णमयोऽहं वरेण्यगण्योऽहम् । वाचामगोचरोऽहं वचसामर्थे पदे निविष्टोऽहम् ॥ १३९ ॥ शमदमविरहितमनसां शास्त्रशतैरप्यगम्यमानोऽहम् । शरणमहमेव विदुषां शकलीकृतविविधसंशयगणोऽहम् ॥१४०॥ पडावविरहितोऽहं पडूणरहितोऽहमहितरहितोऽहम् । पोशविरहितोऽहं पट्टिशतत्त्वजालरहितोऽहम् ॥ १४१ ॥
संवित्सुखात्मकोऽहं समाधिसङ्कल्पकल्पवृक्षोऽहम् । संसारविरहितोऽहं साक्षात्कारोऽहमात्मविद्यायाः ॥ १४२ ॥
१०७
हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् । हरिरहमस्मि हरोऽहं विधिरहमेवास्मि कारणं तेषाम् ॥ १४३ ॥ क्षालितकलुषमयोऽहं क्षपितभवक्लेशजालहृदयोऽहम् । क्षान्ताद्यक्षरसुघटितविविधव्यवहारमूलमहमेव ॥ १४४ ॥ बहुभिः किमेभिरुक्तैः अहमेवेदं चराचरं विश्वम् । शीकरफेनतरङ्गाः सिन्धोरपराणि न खलु वस्तूनि ॥ १४५ ॥ शरणं न हि मम जननी न पिता न सुता न सोदरा नान्ये । परमं शरणमिदं स्यात् चरणं सम मूर्ध्नि देशिकन्यस्तम् ॥१४६॥