________________
१०८
स्वात्मनिरूपणम् .
आस्ते दैशिकचरणं निरवधिरास्ते तदीक्षणे करुणा । आस्ते किमपि यदुक्तं किमतः परमस्ति जन्मसाफल्यम् ॥१४७॥ हिमकरकरौघसान्द्राः काङ्क्षितवरदानकल्पकविशेषाः । श्रीगुरुचरणकटाक्षाः शिशिराश्शमयन्ति चित्तसन्तापम् ॥१४८॥ कवलितचञ्चलचेतोगुरुतरमण्डूकजातपरितोषा ।
शेते हृदयगुहायां चिरतरमेकैव चिन्मयी भुजगी ॥ १४९ ॥ afe सुखबोधपयोधौ महति ब्रह्माण्डबुद्वदसहस्रम् । मायाविशेषशालिनि भूत्वाभूत्वा पुनस्तिरोधत्ते ॥ १५० ॥ गुरुकृपयैव सुनावा प्राक्तनभाग्यप्रवृद्धमारुतया । दुस्सहदुःखतरङ्गः तुङ्गस्संसारसागरस्तीर्णः ॥ १५१ ॥ सति तमसि मोहरूपे विश्वमपश्यंस्तदेतदिसखिलम् । sitaafa बोधभानौ किमपि न पश्यामि किंत्विदं चित्रम् ॥ १५२ नाहं नमामि देवान् देवानतीस न सेवते देवम् । न तदनु करोति विधानं तस्मै यतते नमो नमो मह्यम् ॥ १५३ ॥ इसात्मबोधलाभं मुहुरप्यनुचिन्स मोदमानेन । प्रारब्धकर्मणोऽन्ते परं पदं प्राप्यते स्म कैवल्यम् ॥ १५४ ॥ मोहान्धकारहरणं संसारोद्वेलसागरोत्तरणम् ।
स्वात्मनिरूपणमेतत् प्रकरणमिदमकृत दक्षिणामूर्तिः ॥ १५५ ॥ अज्ञानान्ध्यविहन्ता विरचितविज्ञानपङ्कजोल्लासः । मानसगगनतलं मे भासयति श्रीनिवासगुरुभानुः ॥ १५६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशङ्कराचार्यकृतस्वात्मनिरूपणप्रकरणं समाप्तम्.
*“ दक्षिणामूर्तिः श्रीपरमशिवः 'श्रीनिवास गुरुः श्रीविष्णुगुरुः स एव भानुः सहस्रकिरण: " इति सच्चिदानन्दसरस्वतीविरचितायां टीकायाम्.
ግን 66