________________
स्वात्मनिरूपणम् .
किं चिन्यं किमचिन्यं किं कथनीयं किमप्यकथनीयम् । किं कृतं किमकसं निखिलं ब्रह्मेति जानतां विदुषाम् ॥ १०१ ॥ निखिलं दृश्यविशेषं दृग्रपत्वेन पश्यतां विदुषाम् ।
१०४
ܬ
बन्धो नापि न मुक्तिः न परात्मत्वं न चापि जीवत्वम् ॥ १०२ ॥ असकृदनुचिन्तितानां अव्याहततरनिजोपदेशानाम् । प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिल निगमानाम् ॥१०३॥ इत्थं निबोधतस्सन् गुरुणा शिष्यो हृष्यन् प्रणम्य तं पदयोः । स्वानुभवसिद्धमर्थं स्वयमेवान्तविचारयामास ॥ १०४ ॥ अजरोऽहमक्षरोsहं प्राज्ञोऽहं प्रयगात्मवोधोऽहम् । परमानन्दमयोऽहं परमशिवोऽहं भवामि परिपूर्णः ॥ १०५ ॥
आद्योऽहमात्मभाजां आत्मानन्दानुभूतिरसिकोऽहम् । आबालगोपमखिलैः अहमिसनुभूयमानमहिमाऽहम् ॥ १०६ ॥ इन्द्रियसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् । इतिमतिदूरतरोऽहं भावेतरमुखितचित्तोऽहम् ॥ १०७ ॥ ईशोऽहमीश्वराणां ईर्ष्या द्वेषानुपङ्गरहितोऽहम् । ईक्षणविषयमतीनां ईप्सितपुरुषार्थ साधनपरोऽहम् ॥ १०८ ॥ उदयोऽहमेव जगतां उपनिषदुद्यानकृतविहारोऽहम् । उद्वेलशोकसागरशोषणवाडबहुतवहनाचिरहम् ॥ १०९ ॥ ऊर्जस्वलानिजविभवैः ऊर्ध्वमस्तिर्यगवानोऽहम् । ऊहापोहविचारैः उररीकृतवत्प्रतीयमानोऽहम् ॥ ११० ॥ ऋषिरहमृषिगणो[णको] sहं सृष्टिरहं सृज्यमानमहमेव । ऋद्धिरहं वृद्धिरहं तृप्तिरहं तृप्तिदीपदीप्तिरहम् ॥ १११ ॥ एकोऽहमेतदीदृशमेवमिति स्फुरितभेदरहितोऽहम् । एव्योऽहमनी है: अन्तस्सुकृतानुभूतिरहितोऽहम् ॥ ११२ ॥
ु