________________
स्वात्मनिरूपणम्,
१०३
गोशब्दादिव गोत्वं तदपि व्यक्तिः प्रतीयतेऽर्थतया । अहमर्थः परमात्मा तद्वद्भान्त्या भवसहङ्कारः ॥ ८९ ॥ दग्धृत्वादिकमयसः पावकसङ्गेन भासते यद्वत् । तद्वचेतनसङ्गात् अहमि प्रतिभान्ति कर्तृताऽऽदीनि ॥ ९० ॥ देहेन्द्रियादिदृश्यव्यतिरिक्तं विमलमतलमद्वैतम् । अहमर्थमिति विदित्वा तद्व्यतिरिक्तं न कल्पयत्किञ्चित् ॥११॥ यद्वत् सुखदुःखानां अवयवभेदादनेकता देहे । तद्वदिह सबभेदेऽप्यनुभववैचित्रयमात्मनामेषाम् ॥ ९२ ॥ किमिदं किमस्य रूपं कथमेतदभूदमुष्य को हेतुः । इति न कदापि विचिन्सं चिन्सं भायेति धीमता विश्वम् ॥२३॥ दन्तिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव । जगति तथा परमात्मा परमात्मन्यपि जगतिरोधत्ते ॥ ९४ ॥ आत्ममये. महति पटे विविधजगचित्रमात्मना लिखितम् । स्वयमेव केवलमसौ पश्यन् प्रमुदं प्रयाति परमात्मा ॥९॥ चिन्मात्रयमलमक्षयमद्वयमानन्दमनुभवारूढम् । ब्रह्मैवास्ति तदन्यत् न किञ्चिदस्तीति निश्चयो विदुपाम् ॥१६॥ व्यवहारस्व दशेयं विद्याऽविद्येति वेदपरिमापा । नास्त्येव तत्त्वदृष्टया तत्वं ब्रह्मैव नान्यदस्त्यस्मात् ॥ ९७ ॥ अस्त्यन्यदिति मतं चेत् तदापि ब्रह्मैतदस्तितारूपम् । व्यतिरिक्तमस्तितायाः नास्तितया शून्यमेव तत्सिद्धम् ॥९८॥ तत्त्वाववोधशक्त्या स्थिरताया बाधिताऽपि सा माया । आदेहपातमेवां आभासात्माऽप्ययं निजो विदुषाम् ॥ १९ ॥ एप विशेपो विदुषां पश्यन्तोऽपि प्रपञ्चसंसारम् । पृथगात्मनो न किंचित् पश्येयुः सकलनिगमनिर्णीतात् ॥ १००॥