________________
१०२
स्वात्मनिरूपणम्. कारणमसदिति केचित् कथयन्ससतो भवेन्न कारणता । अङ्करजननी शक्तिः सति खलु वीजे समीक्ष्यते सकलैः ॥७॥ कारणमसदिति कथयन् वन्ध्यापुत्रेणं निर्वहेत् कार्यम् । किञ्च मृगतृष्णिकाम्भः पत्विोदन्यां महीयसी शमयेत् ॥७८॥ यस्मान्न सोऽयमसतो वादः सम्भवति शास्त्रयुक्तिभ्याम् । तस्मात् सदेव तत्वं सर्वेषां कारणं भवति जगताम् ॥७९॥ जगदाकारतयाऽपि प्रथते गुरुशिष्यविग्रहतयाऽपि । ब्रह्माद्याकारतया (ऽपि) प्रतिभातीदं परात्परं तत्त्वम् ॥८०॥ ससं जगदिति भानं संसृतये स्यांदपक्वचित्तानाम् । तस्मादससमेतत् निखिलं प्रतिपादयन्ति निगमान्ताः ॥ ८१॥ परिपक्वमानसानां पुरुषवराणां पुरातनैः सुकृतैः । ब्रह्मैवेदं सर्व जगदिति भूयः प्रबोधययेषः ॥ ८२ ॥ अनवगतकाञ्चनानां भूषणधीरेव भूषणे हैमे । एवमविवेकभाजां जगति जनानां न तात्त्विकी धिपणा ॥३॥ अहमालम्वनसिद्धं कस्य परोक्षं भवेदिदं ब्रह्म । तदपि विचारविहीनः अपरोक्षयितुं न शक्यते मुग्धैः ॥८४॥ अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि । प्रथमा प्रतीचि चरमा निवसति वपुरिन्द्रियादिबाह्येऽर्थे ॥८॥ वपुरिन्द्रियादिविषयाऽहम्बुद्धिश्चेन्महससौ भ्रान्तिः । तद्धिरतस्मिन्नियध्यासत्वेन शास्यमानत्वात् ॥८६॥ तस्मादशेषसाक्षी परमात्मैवाहमर्थ इत्युचितम् । अजडवेदेव जडोऽयं सत्सम्बन्धाद्भवसहङ्कारः ॥ ८७ ॥ तस्मात् सर्वशरीरेष्वहमहमिसेव भासते स्पष्टः । यः प्रययो विशुद्धः तस्य ब्रह्मैव भवति मुख्योऽर्थः ॥८॥