________________
१÷१
स्वात्मनिरूपणम्.
अधिकारिविषयभेदौ कर्मज्ञानात्मकgat rust | एवं सति कथमनयोः अङ्गाङ्गित्वं परस्परं घटते ॥ ६८ ॥ ज्ञानं कर्मणि न स्यात् ज्ञाने कर्मेदमपिं तथा न स्यात् । कथमनयोरुभयोत् तपनतमोवत्समुच्चयो घटते ॥ ६९ ॥ तस्मान्मोहनिवृत्तौ ज्ञानं न सहायमन्यदर्थयते । यद्वद्धनतरतिमिरमकरपरिध्वंसने सहस्रांशुः ॥ ७० ॥ ज्ञानं तदेवममलं साक्षी विश्वस्य भवति परमात्मा । सम्बध्यते न धर्मैः साक्षी तैरेव सच्चिदानन्दः ॥ ७१ ॥
रज्ज्वादेरुरगाद्यैः सम्बन्धवस्य दृश्यसम्बन्धः । सततमसङ्गोऽयमिति श्रुतिरप्यमुमर्थमेव साधयतेि ॥ ७२ ॥ कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति । यस्य न कर्तृ न कर्म स्फुरतरमयमेव वेदितुं क्रमते ॥७३॥* कर्तृत्वादिकमेतत् मायाशक्त्या प्रपद्यते निखिलम् । इति केचिदाहुरेषा भ्रान्तिर्ब्रह्मातिरेकतो नान्यत् ॥ ७४ ॥ तस्मिन् ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् । कारणमृदि विदितायां घटकरकाद्या यथाऽवगम्यन्ते ॥ ७५ ॥ तदिदं कारणमेकं विगतविशेषं विशुद्धचिद्रपम् । तस्मात् सदेकरूपात् मायोपहितादभूदशेषमिदम् ॥ ७६ ॥
*" इदानीं ब्रह्मस्वरूपातिरिक्तं धर्मादिवस्तुजातं किमपि नास्ति येन संबन्धाद्यपेक्षा स्यात् इत्याह - कत्रिति ॥ कर्तृ नाम कर्तुत्वम् । चकारो वाऽर्थः । कर्म च कर्मरूपं वा यस्य स्फुरति स ब्रह्मव कर्तृकर्म स्फुरणरूपत्वात् । कर्ट कर्म ब्रह्म न जानाति, स्वस्यावस्तुत्वादित्यर्थः । यस्य ब्रह्मणः कर्ट कर्म किमपि नास्ति स ब्रह्मरूपोऽयमात्मैव स्फुटतरं वेदितुं ज्ञातुं क्रमते उपक्रमते " ॥ इति सच्चिदानन्दसरस्वतीविरचितटीकायाम्.