________________
१.. .
स्वात्मनिरूपणम् . निगमगिरा प्रतिपाद्यं वस्तु यदानन्दरूपमद्वैतम् । स्वाभाविकं स्वरूपं जीवत्वं तस्य केचन ब्रुवते ॥ ५६ ॥ स्वाभाविकं यदि स्यात् जीवत्वं तस्य विशदविज्ञप्तेः । सकृदपि न तद्विनाशं गच्छेदुष्णप्रकाशवद्वद्वेः ॥ ५७ ॥ यद्वदयो रसविद्धं काञ्चनतां याति तद्वदेवासौ । . जीवरसाधनशक्त्या परतां यातीति केचिदिच्छन्ति ॥ ५८ ॥ तदिदं भवति न युक्तं गतवति तस्मिन् चिरेण रसवीर्ये । प्रतिपद्यते प्रणाशं हैमो वर्णोऽप्ययस्समारूढः ॥ ५९ ॥ . जीवत्वमपि तथेदं बहुविधमुखद खलक्षणोपेतम् । गतमिव साधनशक्त्या प्रतिभासेव प्रयाति न विनाशम् ॥६०॥ तस्मात् स्वतो यदि स्यात् जीवस्सततं स एव जीवस्स्यात् । एवं यदि परमात्मा परमात्मैवायमिति भवेद्युक्तम् ॥ ६१ ॥ यदि वा परेण साम्यं जीवश्चगजति साधनवलेन । कालेन तदपि कियता नश्यसेवेति निश्चितं सकलैः ॥१२॥ तस्मात् परं स्वकीयं मोहं मोहात्मकं च संसारम् । स्वज्ञानेन जहित्वा पूर्णः स्वयमेव शिष्यते नान्यत् ॥६३॥ सयज्ञानानन्दं प्रकृतं परमात्मरूपमद्वैतम् । अवबोधयन्ति निखिलाः श्रुतयः स्मृतिभिः समं समस्ताभिः||६४॥ एकत्वबोधकानां निखिलानां निगमवाक्यजालानाम् । वाक्यान्तराणि सकलान्यभिधीयन्ते स्म शेषभूतानि ॥ ६ ॥ यस्मिन् मिहिरवदुदिते तिमिरवदपयान्ति कर्तताऽऽदीनि । ज्ञानं विरहितभेदं कथमेतद्भवति तत्त्वमस्यादेः ॥ ६६ ॥ कर्मप्रकरणनिष्ठं ज्ञानं कर्माङ्गमिष्यते प्राज्ञैः । भिन्नप्रकरणभाजः कर्माङ्गत्वं कथं भवेज्ज्ञप्तेः ॥ ६७ ॥