________________
स्वात्मनिरूपणम् . वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया । भवति परमं प्रमाण बोधो नास्ति स्वतश्च परतो वा ॥४४॥ नापेक्षते यदन्यत् यदपेक्षन्तेऽखिलानि मानानि । वाक्यं तन्निगमानां भानं ब्रह्माद्यतीन्द्रियावगतौ ॥ ४५ ॥ मानं प्रबोधयन्तं वो मानेन थे बुभुत्सन्ते । एधोभिरेव दहनं दग्दं वाङ्कन्ति ते महात्मानः ॥ ४६ ॥ वेदोऽनादिरमुप्य व्यञ्जक ईशस्वयंप्रकाशात्मा । तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिः प्रमाणमिति ॥ ४७॥ रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् । तद्वददृष्टावगतौ वेदवदन्यो न वेदको हेतुः ॥ ४८ ॥ निगमेषु निश्चितार्थ तन्त्रे कश्चिद्यदि प्रकाशयति । तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किञ्चित् ॥४९॥ अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यशः । अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोंऽशः ॥ ५० ॥ अद्वैतमेव ससं तस्मिन् द्वैतं न ससमध्यस्तम् । रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥ ५१ ॥ आरोपितं यदि स्यात् अद्वैतं वस्त्ववस्तुनि द्वैते । युक्तं नैव तदा स्यात् ससेऽध्यासो भवसससानाम् ॥ ५२ ॥ यद्यारोपणमुभयोः तद्वयतिरिक्तस्य कस्य चिदभावात् । आरोपणं न शून्ये तस्मादद्वैतससता ग्राह्या ॥ ५३ ॥ प्रयक्षाद्यनवगतं श्रुया प्रतिपादनीयमद्वैतम् । द्वैतं न प्रतिपाद्यं तस्य स्वयमेव लोकसिद्धत्वात् ॥ ५४ ॥ अद्वैतं सुखरूपं दुस्सहदुःखं सदा भवेद्वैतम् । यत्र प्रयोजनं स्यात् प्रतिपादयति श्रुतिस्तदेवासौ ॥ ५५ ॥