________________
स्वात्मनिरूपणम् . निखिलमपि वाच्यमर्थं सक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे । जहतीति लक्षणा स्यात् गङ्गायां घोषवदिह न ग्राह्या ॥३३॥ वाच्यार्थमसजन्त्याः यस्या वृत्तेः प्रवृत्तिरन्यार्थे । इयमजहतीति कर्थिता शोणो धावतिवदन न ग्राह्या ॥३४॥ जहदजहतीति सा स्यात् या वाच्यार्थंकदेशमपहाय । बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥ ३५॥ सोऽयं द्विज इति वाक्यं सक्त्वाऽपरोक्षपरोक्षदेशाद्यम् । द्विजमात्रलक्षकत्वात् कथयसैक्यं पदार्थयोरुभयोः ॥ ३६॥ तद्वत्तत्त्वमसीति सस्त्वाऽपरोक्षपरोक्षतादीनि । चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥ ३७॥ इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन । अहमियपरोक्षयतां वेदो वेदयति वीतशोकत्वम् ॥ ३८ ॥ प्रायः प्रवर्तकत्वं विधिवचसां लोकवेदयोदृष्टम् । सिद्धं बोधयतोऽथ कथमेतद्भवति तत्त्वमस्यादेः ॥ ३९ ॥ विधिरेव न प्रवृत्तिं जनयसभिलषितवस्तुबोधोऽपि । राजा भवति सुतोऽभूत् इति बोधेन प्रवर्त ते लोकः ॥४०॥ ऐक्यपरैः श्रुतिवाक्यैः आत्मा शश्वत् प्रकाशमानोऽपि । दैशिकदयाविहीनैः अपरोक्षयितुं न शक्यते पुरुषैः ॥४१ ॥ विरहितकाम्यनिषिद्धो विहितानुष्ठाननिर्मलस्वान्तः । भजति निजमेव बोधं गुरुणा किमिति त्वया न मन्तव्यम् ॥ ४२॥ कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना । आचार्यवान् हि पुरुषो वेदेसर्थस्य वेदसिद्धत्वात् ॥ ४३ ॥
ष इतिवदन न ग्राह्या,