________________
स्वात्मनिरूपणम्. सति कोशशक्त्युपाधौ सम्भवतस्तस्य जीवतेश्वरते । नो चेत तयोरभावात् विगतविशेषं विभाति निजरूपम् ॥ २१॥ सति सकलदृश्यबाधे न किमप्यस्तीति लोकसिद्धं चेत् । यन्न किमपीति सिद्धं ब्रह्म तदेवेति वेदतः सिद्धम् ॥२२॥ एवमपि विरहितानां तत्त्वमसीत्यादिवाक्यचिन्तनया । प्रतिभासेष परोक्षवत् आत्मा प्रसक् प्रकाशमानोऽपि ॥२३॥ तस्मात् पदार्थशोधनपूर्व वाक्यस्य चिन्तयन्नर्थम् । दैशिकदयाप्रभावात् अपरोक्षयति क्षणेन चात्मानम् ॥ २४ ॥ देहेन्द्रियादिधर्मान् आत्मन्यारोपयन्नभेदेन । कर्तृत्वाद्यभिमानी वोधः स्यात् त्वंपदस्य वाच्योऽर्थः ॥२५॥ देहाहन्तेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन । प्रतिभाति योऽवबोधः प्रोक्तोऽसौ त्वंपदस्य लक्ष्योऽर्थः ॥२६॥ वेदावसानवाचा संवेद्यं सकलजगदुपादानम् । सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योऽर्थः ॥ २७ ॥ विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् । अक्षरमनुभववेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ २८ ॥ सामानाधिकरण्यं तदनु विशेषणविशेष्यता चेति । अथ लक्ष्यलक्षकत्वं भवति पदार्थात्मनां च सम्बन्धः॥२९॥ एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् । सामानाधिकरण्यं भवतीसेवं वदन्ति लाक्षणिकाः ॥ ३० ॥ प्रासक्ष्यं पारोक्ष्यं' परिपूर्णत्वं च सद्वितीयत्वम् । इतरेतरं विरुद्धं तत इह भवितव्यमेव लक्षणया ॥ ३१ ॥ मानान्तरोपरोधे मुख्यार्थख्यापरिग्रहे जाते । मुख्याविनाकृतेऽर्थे या वृत्तिः सैव लक्षणा प्रोक्ता ॥३२॥ 1“ प्रत्यक्षत्वं परोक्षत्वं " इति तु मातृकाकोशपाठः.
iv-13