________________
स्वात्मनिरूपणम्. कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः । अस्य कथमात्मता स्यात् क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥ १० ॥ कुरुते वपुष्यहन्तां गेहादौ यः करोति ममतां च । रागद्वेषविधेयो नासावात्मा मनोमयः कोशः ॥ ११ ॥ सुप्तौ स्वयं विलीना बोधे व्याप्ता कलेबरं सकलम् । विज्ञानशब्दवाच्या चित्प्रतिविम्बा न बुद्धिरप्यात्मा ॥ १२॥ सुप्तिगतैः सुखलेशैः अभिमनुते यः सुखी भवामीति । आनन्दकोशनामा सोऽहङ्कारः कथं भवेदात्मा ॥ १३ ॥ यः स्फुरति विम्बभूतः स भवेदानन्द एव सकलात्मा । पागूर्ध्वमपि च सत्त्वात् अविकारित्वादवाध्यमानत्वात् ॥१४॥ अन्नमयादेरस्मात् अपरं यदि नानुभूयते किश्चित् । अनुभविताऽनमयादेः अस्तीत्यस्मिन् न कश्चिदपलापः ॥ १५ ॥ स्वयमेवानुभवत्वात् यद्यप्येतस्य नानुभाव्यत्वम् । सकृदप्यभावशङ्का न भवेद्बोधस्वरूपसत्तायाः ॥ १६ ॥ अनुभवति विश्वमात्मा विश्वेनासौ न चानुभूयते [येत] । न खलु प्रकाश्यतेऽसौ विश्वमशेषं प्रकाशयन् भानुः ॥ १७ ॥ तदिदं तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् । ब्रह्म तदिसवधेयं नो चेद्विषयो भवेत् परोक्षं च ॥ १८ ॥ इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि । अनिदमवाध्यं तत्त्वं सत्त्वादेतस्य न च परोक्षत्वम् ॥१९॥ नावेद्यमपि परोक्षं भवति ब्रह्म स्वयंप्रकाशत्वात् । सत्यं ज्ञानमनन्तं ब्रह्मेत्येतस्य लक्षणं प्रथते ॥ २० ॥