SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ स्वा त्म निरूपणम् . श्रीगुरुचरणद्वन्दं वन्देऽहं मथितदुस्सहद्वन्द्वम् । भ्रान्तिग्रहोपशान्ति पांसुमयं यस्य भासतमातनुते ॥ १॥ देशिकवरं दयालुं वन्देऽहं निहतसकलसन्देहम् । यच्चरणद्वयमद्वयं अनुभवमुपदिशति तत्पदस्यार्थम् ॥२॥ संसारदावपावकसन्तप्तः सकलसाधनोपेतः । स्वात्मनिरूपणनिपुणैः वाक्यैः शिष्यः प्रबोध्यते गुरुणा ॥३॥ अस्ति स्वयमित्यस्मिन् अर्थे कस्यास्ति संशयः पुंसः ।। अत्रापि संशयश्चेत् संशयिता यः स एव भवसि त्वम् ॥ ४ ॥ नाहमिति वेत्ति योऽसौ सत्यं ब्रह्मैव वेत्ति नास्तीति । अहमस्मीति विजानन् ब्रह्मैवासी स्वयं विजानाति ॥ ५॥ ब्रह्म त्वमेव तस्मात् नाहं ब्रह्मेति मोहमात्रमिदम् । मोहेन भवति भेदः क्लेशाः सर्वे भवन्ति तन्मूलाः ॥ ६ ॥ न क्लेशपञ्चकमिदं भजते कृतकोशपञ्चकविवेकः । अत एव पञ्च कोशान् कुशलधियः संततं विचिन्वन्ति ॥ ७॥ अन्नमाणमनोमयविज्ञानानन्दपञ्चकोशानाम् । एकैकान्तरभाजां भजति विवेकात् प्रकाश्यतामात्मा ॥ ८॥ वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटमायः । प्रागुत्पत्तेः पश्चात् तदभावस्यापि दृश्यमानत्वात् ॥ ९ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy