SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वाक्यवृत्तिः प्रत्यबोधो य आभाति सोऽद्रयानन्दलक्षणः । अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ३९ ॥ इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावर्तत तदैव हि ॥ ४० ॥ तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु । पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४१ ॥ तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने । लक्ष्यौ तत्वंपदार्थो द्वौ उपादाय प्रवर्तते ॥ ४२ ॥ fear at raat वाच्यौ वाक्यं वाक्यार्थबोधने । यथा प्रवर्ततेऽस्माभिः तथा व्याख्यातमादरात् ॥ ४३ ॥ आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥ ४४ ॥ मायोपाधिजगद्योनिः सर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५ ॥ प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता । विरुद्धयते यतस्तस्मात् लक्षणा सम्प्रवर्तते ॥ ४६ ॥ मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे । मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोंच्यते ॥ ४७ ॥ तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा । सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ४८ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy