________________
वाक्यवृत्तिः अहं ब्रह्मेतिवाक्यार्थबोधो यावद्दढीभवेत् । शमादिसहितस्तावत् अभ्यसेच्छ्रवणादिकम् ॥ ४९ ॥ श्रुत्याचार्यप्रसादेन दृढबोधो यदा भवेत् । निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥५०॥. विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः । विमुक्तकर्मनिगलः सद्य एव विमुच्यते ॥ ५१ ॥ प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत् । किंचित्कालमनारब्धकर्मबन्धस्य संक्षये ॥ ५२ ॥ निरस्तातिशयानन्दं वैष्णवं परमं पदम् । पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥ ५३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य: श्रीमच्छङ्करभगवत्पादविरचिता
वाक्यवृत्तिः समाप्ता.
*" पुरुषो यदा अनारब्धकर्मवन्धस्य संक्षये जीवन्मुक्तो भवेत् तदाप्रभृति प्रारब्धकर्म वेगेन किंचित्कालं अवतिष्ठते इत्यन्वयः.” इति विश्वेश्वरीयटीकायाम्.