SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ९० वाक्यवृत्तिः निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः । अदृश्यत्वादिगुणकः पराकृततमोमलः ॥ २९ ॥ निरस्तातिशयानन्दः सत्यमज्ञानविग्रहः । सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥ सर्वज्ञत्वं परेशत्वं तथा सम्पूर्णशक्तिता । वेदैः समर्थ्यते यस्य तद्वह्मेत्यवधारय ॥ ३१ ॥ यज्ज्ञानात् सर्वविज्ञानं श्रुतिषु प्रतिपादितम् । मृदायनेकदृष्टान्तैः तद्ब्रह्मेत्यवधारय ॥ ३२ ॥ यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगी । तत्कार्यत्वं पञ्चस्य तद्वह्मेत्यवधारय ॥ ३३ ॥ विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः । समर्थ्यतेऽतियनेन तद्वह्मेत्यवधारय ॥ ३४ ॥ जीवात्मना प्रवेशश्च नियन्तृत्वं च तान् प्रति । श्रूयते यस्य वेदेषु तद्वह्मेत्यवधारय ॥ ३५ ॥ कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ । जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय ॥ ३६ ॥ तत्पदार्थों निर्णीत वाक्यार्थश्चिन्त्यतेऽधुना । तादात्म्यमत्र वाक्यार्थः तयोरेव पदार्थयोः ॥ ३७ ॥ ini वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy