SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ वाक्यवृत्तिः अनापन्नविकारः सन् अयस्कान्तवदेव यः । बुद्धयादींश्चालयेत् प्रत्यक् सोऽहमित्यवधारय ॥ १९ ॥ अडात्मवदाभान्ति यत्सान्निध्याज्जडा अपि । देहेन्द्रियमनः प्राणाः सोऽहमित्यवधारय ॥ २० ॥ अगमन्मे मनोऽन्यत्र साम्प्रतं च स्थिरीकृतम् । एवं यो वेद धीवृत्ति सोऽहमित्यवधारय ॥ २१ ॥ स्वप्नजागरिते सुतं भावाभावो aियां तथा । यो वेत्यविक्रियः साक्षात् सोऽहमित्यवधारय ॥ २२ ॥ घटावभासको दीपो घटादयो यथेष्यते । tararaat देही तथाsहं बोधविग्रहः ॥ २३ ॥ पुत्रवित्तादयो भावाः यस्य शेषतया प्रियाः । द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥ परप्रेमास्पदतया मा न भूवमहं सदा । भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥ यः साक्षिलक्षणो वोधः त्वंपदार्थः स उच्यते । साक्षित्वमपि बोद्धृत्वं अविकारितयाऽऽत्मनः ॥ २६ ॥ देहेन्द्रियमनः प्राणाहङ्कृतिभ्यो विलक्षणः । मोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥ २७ ॥ त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत् पुनः । अतद्वयावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥ iv-12
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy