________________
८८
वाक्यवृत्तिः अत्र ब्रूमः समाधानं कोऽन्यो जीवस्त्वमेव हि । यस्त्वं पृच्छसि मां कोऽहं ब्रह्मैवासि न संशयः ॥ ८॥ पदार्थमेव जानामि नाद्यापि भगवन् ! स्फुटम् । अहं ब्रह्मेति वाक्यार्थ प्रतिपद्ये कथं वद ॥९॥ सत्यमाह भवानत्र विगानं नैव विद्यते । हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥ १० ॥ अन्तःकरणतद्वत्तिसाक्षिचैतन्यविग्रहः । आनन्दरूपः सत्यः सन् किं नात्मानं प्रपद्यसे ॥११॥ सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम् । चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥१२॥ रूपादिमान् यतः पिण्डः ततो नात्मा घटादिवत् । वियदादिमहाभूतविकारत्वाच्च कुम्भवत् ॥ १३ ॥ अनात्मा यदि पिण्डोऽयं उक्तहेतुबलान्मतः । करामलकवत् साक्षात् आत्मानं प्रतिपादय ॥ १४ ॥ घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा । देहद्रष्टा तथा देहो नाहमित्यवधारय ॥ १५ ॥ एवमिन्द्रियहाहं इन्द्रियाणीति निश्चिनु । मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६ ॥ सङ्घातोऽपि तथा नाहं इति दृश्यविलक्षणम् । द्रष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥ देहेन्द्रियादयो भावाः हानादिव्यापृतिक्षमाः । . यस्य सन्निधिमात्रेण सोऽहमित्यवधारय ॥ १८ ॥