SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ वा क्य वृत्ति :. सर्गस्थितिमलयहेतुमचिन्यशक्ति विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् । निर्मुक्तवन्धनमपारसुखाम्बुराशि श्रीवल्लभं विमलबोधघनं नमामि ॥ १॥ यस्य प्रसादादहमेव विष्णुः मय्येव सर्व परिकल्पितं च ।। इत्थं विजानामि सदाऽऽत्मरूपं तस्याड्रिपमं प्रणतोऽस्मि नित्यम् ॥ २ ॥ तापत्रयार्कसन्तप्तः कश्चिदुद्विग्नमानसः । शमादिसाधनैर्युक्तः सद्गरं परिपृच्छति ॥ ३ ॥ अनायासेन येनास्मात् मुच्येयं भवबन्धनात् । तन्मे संक्षिप्य भगवन् ! केवलं कृपया वद ॥४॥ साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते । इदं तदिति विस्पष्टं सावधानमतिः शृणु ॥५॥ तत्त्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः । तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥६॥ को जीवः? कः परश्चात्मा ? तादात्म्यं वा कथं तयोः । तत्त्वमस्यादिवाक्यं वा कथं तत् प्रतिपादयेत् ? ॥ ७ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy