________________
आचार्य जिनवल्लभ के ही प्रपौत्र पट्टधर श्रीजिनपतिसूरि ने जिनवल्लभीय संघपट्टक की वृहद्वृत्ति में, ३३ वें पद्य की व्याख्या करते हुये इन्हीं दोनों पद्यों को उद्धृत किया है और उन पर व्याख्या लिखी है:
व्याख्या:-श्रीवीरास्पदं-श्रीमहावीरजिनगृहं आप्तसम्मतं-सद्गुरुणामनुमतं इदंप्रत्यक्षं ते प्रागुक्ताः श्रावकाः कारयाञ्चक्रिरे-विरचयाम्बभूवुः । अथ तनान्यदेवगृहसद्भावेऽपि तदबहमानादपरविधापनेन तेषां भगवदाशातनाप्रसङ्गात् किमिति ते कारयामासः? इत्यत आह-क्षुद्राणां-लिङ्गिनां आचीर्णानि-सिद्धान्तोक्तमपि श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं लज्जनीयत्वात् न कर्त्तव्यमित्यादिकाः आचरणाः ततश्च आचीर्णानि च कुबोधश्च कुग्रहश्च तैः हते-दूषिते स्वं धार्मिकं तन्वति-वयमेव धार्मिका इति सर्वत्र प्रख्यापयन्ति । द्विष्टं-मात्सर्यवत् अनिष्टं-अपायकरणप्रवणं निकृष्टं-अधमं धृष्टं-पापं कुर्वतोऽनुपजाय- . मानं शङ्क मनः-चित्तं यस्य स तथा तस्मिन्, किलष्टे-धार्मिकान्प्रति क्रूराध्यवसाये एवम्विधे सम्प्रति भूयसि-प्रभूते जने-लोके सति । अथ यद्यवम्विधो भूयात् लोकः सम्प्रति ततः किमायातमपरचैत्यविधापनस्य? इत्यत आह-ताहग्लोकपरिग्रहेण-प्रागुक्तविशेषणविशिष्टजनाधीनत्वेन निविडद्वषोपरागग्रहेण-तीव्रगुणवत्मात्सर्योदग्रस्वमतानुरागाभिनिवेशेन ग्रस्ताः-वशीकृता ये एतद्गुरवः-प्रागभिहितनामाचार्यास्तत् सात्कृतेषु देयेर्थे सातितद्धितः, तत-च गुरुदक्षिणीकरणेन तदायत्तीकृतेषु जिनावासेषु- चैत्यसक्नेषु भूम्ना-बाहुल्येन अधुना सजातेषु सत्षु । ननु यदि सम्प्रति जिनालया दुष्टलोकपरिगृहीसा लिङ्गिगुरूणामायत्ताश्च तत् किमेतावता द्वषकारित्वात् आगमविरुद्धावायित्वाच्च तेषामेव पातकं भविष्यति, भवतां तु पूजावन्दनादिकं कुर्वाणानां धर्म एव ? इत्यत आह-तत्त्वद्वषविशेषः सन्मार्गे मात्सर्यप्रकर्ष एषः । यद् असन्मार्गे-कुमार्गे प्रवृत्तिः-गमनपूजनव्यवहारः लिङ्गिपरिगृहीतो हि जिनालयादि सर्वोऽपि असन्मार्गः, ततश्च सत्पथमेव बुध्यमाना अपि यन्नित्यं असन्मार्गे प्रवर्तन्ते तन्नूनं तेषां सत्पथे द्वषो मनसि विपरिवर्तते, कथमन्यथा तत्रोव प्रवृत्तिः ? अतस्तत्र प्रवर्तमानानां धार्मिकाणामपि अविध्यनुमोदनमुग्धजनस्थिरीकरणादिना पापमेव । सदा ग्रहणात् कदाचिदपवादेन तथापि प्रवृत्तिरनुज्ञाता। सेयं-सैषा .धर्मविरोधेन सद्धर्मविद्वषेण बोधविधुति:सब्दोधनाशो यत् सत्पथे-सन्मार्गे कुपथेन साम्यधी:-तुल्यताबुद्धिः । सत्पथकुपथयोः ह्यालोकतमसोरिव महदन्तरम्, सत्पथपरिज्ञानेऽपि नित्यं कुपथप्रवृत्तौ तु तेषां सत्पथकुपथयो. साधारण्यं चेतसि निविशमानं लक्ष्यते । तथा च नूनं ते धर्मविद्वेषिणः सद्बोधविधुरा इति । यस्मादेव तस्मात् सपथं-विधिमार्ग उद्विभावयिषुभिः-विधिचैत्यविधापनेन प्रकाशयद्धि: अस्माभिः कृत्यं कर्तव्यां कृतं-विहितं स्यात् । विधिमार्गमासेदुषां ह्येतदेव कर्तव्यं यत् कुपथपाथोधिपातुकभविको द्विधीर्षया विधिमार्गस्य प्रकाशनं, न चासो सम्प्रति विधिचैत्यनिर्मापणं विना प्रकाशयितु शक्यते । शेषचत्यानां प्रायेण सर्वेषामपि लिङ्गिपरिग्रहेणाऽघ्रातत्वात् इति हेतौ अस्माद्ध तोस्ते वीरास्पदमित्यादि पूर्वव्याख्यातम् । इत्यानुषङ्गिकवृत्तिद्वयार्थः ।
अर्थात् भगवान् महावीर का गर्भापहार कल्याणक सिद्धान्त-सम्मत होने पर भी वेषधारी इसे लज्जनीय मानकर, त्याज्य मानते हैं और इस दिवस धार्मिक अनुष्ठान करने वाले श्रावकों को न केवल हेय दृष्टि से ही देखते हैं अपितु धर्माराधन में बाधक भी होते हैं,
४८ ]
[ वल्लभ-भारती