________________
उपमा दी है- विचारने का वे परिश्रम नहीं उठाते । आचार्य जिनपतिसूरि इस शब्द की व्याख्या करते हुए लिखते हैं:
___“अथ कथमिह सङ्घस्य क्रूरतमा व्याघ्रण निरूपणं ? तत्त्वे हि तस्य भगवन्नमस्कारो न घटामिययात् । श्रू यते च तीर्थप्रवर्तनाऽनेहसि “नमो तित्थस्से'त्याद्यागमवचनप्रामाण्येन भगवतस्तन्नमस्कारविधानं, तत्कथमेतदुपपद्यत इति चेत् ? न, सहग्नामश्रवणाद् सङ्घऽपि प्रकृते भवतः सङ्घभ्रान्तेः । अन्यो हि संघो भगवन्नमस्कारविषयोऽन्यश्चाधुनिको भवदभिमतः । तथाहि-गुणगुणिनोः कथंचित्तादात्म्यंन ज्ञानादिगुणसमुदायरूपः शुद्धपथप्रथनबद्धादरोऽनुल्लंधितभगवच्छासनः साध्वादिः सिद्धांते सङ्घ इत्यभिधीयते । यदाह
सव्वोवि नाणदसण-चरणगुणविभूसियाण समरणारणं ।
समुदायो होइ सघो. गुणसघायो ति काऊरणं ॥ एवंविधश्च संघो भगवन्नमस्कारविषयः । स हि भगवन्नमस्यदखण्डाखण्डलमौलिमालाललितक्रमकमलोऽपि तीर्थस्य साक्षात्रष्टापि प्राक्तनजन्मनिर्वत्तितभावसंघवात्सल्यादार्हन्त्यं मयावाप्तमिति कृतज्ञता प्रदिदशयिषया सद्बहुमानदर्शनाच्च लोकोऽप्येनं बहुमन्येत इति जिज्ञापयिषया च तं नमस्कुरुते ।
.. गुणसमुदायो संघो, पवयरण-तित्थं ति हुति एगट्ठा ।
तित्थयरो वि हु एय, नमए गुरुभावप्रो चेव ॥१॥ तप्पुधिया (?) अरहया, पूइयपूया य विणयकम्मं च ।
कयकिच्चोवि जह कह, कहेइ नमए तहा तित्थ ॥२॥ इतरथा कृतकृत्यत्वेन भगवतो यथाकथंचित्तत्रैव भवे मुक्तिसंभवाकिमनेनेति । साम्प्रतिकस्तु भवदभिप्रेत उन्मार्गप्रज्ञापकत्वेन, सम्मार्गप्रणाशकत्वेन, जिनाज्ञासर्वस्वलुण्टाकत्वेन, यतिधर्ममाणिक्यकुट्टाकत्वेन च गुणसमुदायरूपत्वस्य संघलक्षणस्याभावान्न संघः । यदुक्तम्
केइ उम्मग्गट्टिय, उस्सुत्तपरूवयं बहुं लोयं । दठ्ठ भरणंति संघ, संघसरूवं प्रयागंता ॥१॥ सुहसीलामो सच्छ दचारिणो वेरिणो सिवपहस्स।
प्राणाभट्ठामो बहु-जणाम्रो मा भरणह सघोति ॥२॥ परं बहुकीकशसंधातरूपत्वात्सोऽपि संघ इत्यभिधया लोकेऽभिधीयत इति मुग्ध ! नाम्ना विप्रलब्धोऽसि । यदुक्तं--
एक्को साहु एक्का वि साहुणि सावो य सड्ढो य ।
पारणाजुत्तो सघो, सेसो पुरण प्रसिंघानो ॥१॥
अतः सङ्घलक्षणाभावान्नायं बहुमानमर्हति, तद् बहुमानादिकारिणो भगवत्प्रत्यनीकादिभावेनाभिधानात् । यदुक्त
प्राणाए प्रवट्टतं, जो उवबूहिज्ज मोहदोसेणं ।
तित्थयरस्स सुयस्स य, संघस्स य पच्चरणीयो सो॥१॥ तथा
जो साहिज्जे वट्टइ, प्राणाभगे पयट्टमाणाणं।
मरणवायाकाएहिं, समाणदोसं तयं बिति ॥१॥ बल्लभ-भारती ]
[ ७७