SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ यः त्रियोगैः रागमयम् अंञ्जनं विहाय, जगद्रञ्जनं निरञ्जनं जिनं भजति, तं जनं सा मुक्तिः अरम् एति । य इति- यो जनः त्रियोगैः मनोवाक्कायाभिधानैः। रागमयं रोगप्रचुरं अञ्जनं नयनकज्जलं विहाय त्यक्त्वा जगद्रञ्जनं जगदानन्ददायनं निरञ्जनं निष्कला जिनमर्हन्तं भजति सेवते तं जनं पुरुषं सा प्रसिद्धा मुक्तिः शिवरमा। अरं शीघ्रम् । एति प्राप्नोति। जिनभजनं मुक्त्यासज्जनमिति भावः ।।८१।। अर्थ- जो मन-वचन-काय से रागरूप काजल को छोड़कर जगत् को आनन्द देने वाले, कर्मकालिमा से रहित जिनेन्द्र की सेवा करता है, उस पुरुष को वह मोक्षलक्ष्मी ' शीघ्र ही प्राप्त होती है ।।८१।। [८२] त्यजेत्वा सङ्गमेन आश्वलमनेन च दुःसङ्गमेन। भज नमसङ्गमेनमनात्मनि विश्वासं गमे न ।। सङ्गं एनः ईत्वा आशु त्यज। अनेन दुस्सङ्गमेन च अलम्। असङ्गम् एनं नं भज। अनात्मनि गमे विश्वासं न (कुरु)। त्यजेति- सङ्गं परिग्रहं एनः पापं ईत्वा ज्ञात्वा आशु शीघ्रं त्यज। अनेन सङ्गेन दुःसङ्गमेन च कुसंगत्या च अलं पर्याप्तं ततो विरमेति यावत्। असङ्ग निर्ग्रन्थं, एनं एतं न जिनं भज सेवस्व अनात्मनि स्वात्मेतरे गमे मार्गे विश्वासं विश्रम्भं न कुर्विति शेषः।। ८२।। - - अर्थ-परिग्रह को पाप जानकर शीघ्र छोड़ो। इस परिग्रह और कुसंगति से वाज आओ, दूर रहो | इन निर्ग्रन्थ जिनेन्द्र की सेवा करो, पर पथ में विश्वास मत करो।।८२।। . [८३] , तथा जितेन्द्रियोऽङ्गतो निस्स्पृहोऽभवं योगी च योगतः। पक्वपर्णोपचयोऽगतो यथा पतन् मा चल योगतः ।। यः जितेन्द्रियः योगी अभवंगतः, अङ्गतः च तथा निःस्पृहः यथा अगतः पतन् पक्वपर्णपचयः(निःस्पृहो भवति) अतः योगतः मा चल। तथेति- यो जितेन्द्रियः जितानि वशीकृतानि इन्द्रियाणि स्पर्शनादीनि येन सः। योगी साधुः अभवं गतः संसाराभावं गतः प्राप्तः। अगत्तो देहाच्च तथा तेन प्रकारेण निस्पृहो निरभिलाषो जातो यथा। अगतः पादपात् 'पादपोऽगो वनस्पतिः' इति धनञ्जयः। पतन् पक्वपर्णोपचयः पक्वानां गलितरसानां पर्णानां पत्राणामुपचयः समूहो निस्पृहो भवति। अतो हेतोः योगतो ध्यानात् मा चल विचलितो नो भव । यो योगी जितेन्द्रियः पादपात्पतन् पक्वपत्रप्रचय इवाङ्गतोऽपि निस्पृहो भवति स एव भवोच्छेदं कर्तुं पारयति तस्मादुत्पातोपनिपातेऽपि गृहीतयोगाद्विचलितो न भवेति भावः ।।८३।। ___ अर्थ- जो जितेन्द्रिय साधु अभव-संसाराभाव को प्राप्त हुआ है, वह शरीर से उस प्रकार निस्पृह रहता है, जिस प्रकार वृक्ष से पड़ता हुआ सूखे पत्तों का समूह । अतः हे योगिन्! तू (शारीरिक उत्पात आने पर) योग से विचलित न हो।।८३।। (४१) .
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy