________________
[८४]] यो धत्ते सुदृशा समं मुनिर्वाङ्मनोभ्यां च वपुषा समम्।
विपश्यति सहसा स म ह्यनन्तविषयं न तृषा समम्।। यः मुनिः सुदृशा वाङ्मनोभ्यां च वपुषा समं समं धत्ते, स हि अनन्तविषयं मं सहसा समं विपश्यति, तृषा (समं) न (पश्यति)। - य इति-यो मुनिः सुदृशा सम्यग्दर्शनेन समं सार्धं वाङ्मनोभ्यां वचोमानसाभ्यां वपुषा च शरीरेण च समं साम्यपरिणामं धत्ते स मुनिः सहसा झटिति समं मया ज्ञानलक्ष्म्या सहितं अनन्तविषयं सर्वगोचरं सर्वज्ञमिति यावत् । मं विधिं ब्रह्माणं आत्मानमिति यावत् विपश्यति विशेषेण पश्यति समवलोकते । तृषा तृष्णया अनन्तभोगाकांक्षया न विपश्यति हि निश्चयतः 'मश्चन्द्रे मो विधौ' इति विश्वलोचनः ।। ८४।। - अर्थ- जो मुनि सम्यग्दर्शन के साथ मन-वचन-काय से साम्यभाव को धारण करता है, निश्चय से वह अनन्तपदार्थों के ज्ञाता ब्रह्मा-आत्मा को शीघ्र ही देखने लगता है- उसका अनुभव करने लगता है, किन्तु तृष्णा के साथ नहीं ।।८४||
कलय।
[८५] करणकुञ्जकन्दरं स्वरससेवन - संसेवित - कन्दरम् ।
त्वा स्तुवे मेऽकं दरं कलय गुरो ! दृक्कृषिकंद ! रम् ।। (हे) गुरो ! दृक्कृषिकन्द ! स्वरससेवन- संसेवितकन्दरं करणकुञ्जरकन्दरं त्वा स्तुवे। में अकं दरं ___करणेति- हे गुरो! हे दृक्कृषिकंद! दृगेव सम्यग्दर्शनमेव कृषि तस्यै कं जलं ददाति, तत्सम्बुद्धौ। करणकुञ्जरकन्दरं करणानीन्द्रियाण्येव कुञ्जरा गजास्तेषां कन्दरोऽङ्कुशस्तम्।स्वरससेवनसंसेवितकन्दरं स्वरसस्य स्वात्मानुभवस्य सेवनाय संसेविता निवासीकृता कन्दरा गुहा येन तं। त्वा भवन्तं स्तुवे स्तवनं करोमि । मे स्तोतुः। रं तीक्ष्णं तीव्रमिति यावत् अकं दुःखं दरं ईषत् कलय कुरु। 'वा स्त्री तु कन्दरो दर्यामकुशे पुंसिकन्दरः' इति 'रस्तु कामानले वह्नौ तीक्ष्णे' इति च विश्वलोचनः ।।८५।।
अर्थ- ह गुरो! हे सम्यक्त्वरूपी खेती को जल देने वाले! जो इन्द्रियरूपी हाथियों को वश करने के लिये अंकुश हैं तथा आत्मानुभव का सेवन करने के लिये जो कन्दराओं - गुफाओं में निवास करते हैं, ऐसे आपकी मैं स्तुति करता हूं आप मेरे तीव्र दुःख को लघु – हल्का कर दें ।।८५।।
[८६] स हि मुनिर्मयाऽरमितः प्रणतिं यो क्षमारामया रमितः ।
गदितमिति जिनैरमितश्चाप्यते कोऽनया नर! मितः ।। यः क्षमारामया रमितः, स हि मुनिः मन्या अरं प्रणतिम् इतः (ह) नर ! अनया अमितः मितः च कः आप्यते-इति जिनैः गदितम्।
(४२)
।